जननी जन्मभूमिश्च स्वर्गादपि गरीयसी निबंध हिंदी

sanskrit essay on janmabhoomi in hindi जननी जन्मभूमिश्च स्वर्गादपि गरीयसी निबंध हिंदी

sanskrit essay on janmabhoomi in hindi जननी जन्मभूमिश्च स्वर्गादपि गरीयसी निबंध हिंदी

संसारेऽस्मिन् जननी अस्मभ्यं यानि यानि सुखानि प्रयच्छति, जन्मभूमिश्च तथैव सौविध्यानि ददाति । जन्मदात्री माता जन्मभूमिश्च स्वर्गाद् अपि श्रेष्ठा वरिष्ठा च वर्तते । माता कुमाता कदापि न भवति । सा जन्मन प्रभृति अतीव निश्छलप्रेम्णा पुत्रं पुत्रीं च लालयति, पालयति, स्वदुग्धं पाययित्वा शिशुं वर्धयति स्वयं च महत्कष्टानि अनुभूय तं सुखयति, महद्भयाच्च रक्षति।

शीततौं रात्रिकालेषु बालस्य मूत्रेण आद्रीभूताऽपि विष्टरे स्वयं स्वपिति, परन्तु बालं च शुष्कस्थाने शय्यायां स्वापयति । किमधिकं माता स्वसन्ततिसुखाय रक्षणाय च स्वदुर्लभप्राणानपि दातुम् उद्यता भवति। अतः सत्यमिदं कथितं यत् जननी स्वर्गादपि अधिक सुखं प्रयच्छति।

भासस्य कथनानुसारेण माता किल मनुष्याणां देवतानाम् च दैवतम्। वस्तुत: जन्मभूमि: जननीवत् अस्मान् सर्वान् नानाविधानि अन्नानि, फलानि च दत्त्वा यावज्जीवनं पालयति पोषयति संवर्धयति च। भूमिः अस्मभ्यं धनं, धातून, रत्नानि च प्रयच्छति। जन्मदात्री कतिचिद्वर्षानन्तर स्वकर्त्तव्यं पूरयित्त्वा निवृत्ता भवति; किन्तु जन्मभूमिः अस्माकं जीवनस्य अन्तिम क्षणं यावत् स्वान्नजलफलादिभिः अस्मान् पोषयति। वयं च अन्तिमं श्वासम् अत्रैव नयामः पशुपक्षिषु अपि स्वमातृभूमिं प्रति स्नेहभाव: दृश्यते। मानवः तु विशेषरूपेण विवेकशील: मनस्वी च वर्तते । अतः मातृभूम्यै तस्य स्नेह: स्वाभाविक:। सुष्ठुक्तम् अथर्ववेदेऽपि “माता भूमि: पुत्रोऽहम् पृथिव्याः”। खगाः अपि स्वदेशभूमिं बहु स्निह्यन्ति

अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम् ।
रमते न मरालस्य मानसं मानसं विना ।।

चन्द्रशेखर भगतसिंह राजगुर्वादय: देशभक्ता: जन्मभूमिस्वतन्त्रतायै स्वकीयान् प्राणान् दत्त्वा अमरा: जाता: मातृभूमे सीमां परिरक्ष्य सैनिकाः जन्मभूम्या: ऋणात् मुक्ताः भवन्ति ।
स्वर्णमयीं लड़कां विजित्य राम: लक्ष्मणम् अवदत् –

अपि स्वर्णमयी लङ्का, न मे लक्ष्मण रोचते।
जननी जनमभूमिश्च स्वर्गादपि गरीयसी ।

इसे भी पढ़ें : भारतीय संस्कृति पर संस्कृत निबंध

1 thought on “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी निबंध हिंदी”

Leave a Comment

close