Sanskrit Essay On My India मेरा भारत पर संस्कृत में निबन्ध
Sanskrit essay on my India मेरा भारत पर संस्कृत में निबन्ध
Sanskrit essay on my India मेरा भारत पर संस्कृत में निबन्ध
अस्माकं देशस्य प्राचीनं नाम “भारतं” वर्तते ।। ।। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति ।। अस्य पूर्वदिशायां बर्मा देशः अस्ति ।। दक्षिणदिशायां लंका अस्ति ।। पश्चिमदिशायां अफगानिस्तानं वर्तते ।। उत्तरदिशायां च हिमालयः अस्ति ।। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते ।।
अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति ।। एतद् विश्वस्य विशाल: गणतन्त्रदेश: ।। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति ।। अत्रैव वेदानां प्रादुर्भावः बभूव ।। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे ।। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव ।। अस्य महिमा अवर्णनीयः अस्ति ।। अस्य गौरवम् अतुलनीयम् अस्ति ।।
सम्प्रति अस्माकं देशः यत् भारतं विद्यते तस्य भागद्वयम् अस्ति ।। एकं दक्षिणभारतम्, द्वितीयं उत्तरभारतञ्च दक्षिणभारते आन्ध्रप्रदेशः, केरलः, कर्नाटकः, तमिलनाडुः च इति इमे चत्वारः प्रदेशाः सन्ति ।। उत्तरभारते निम्नलिखितानि राज्यानि सन्ति ।। यथा अरुणाचल प्रदेशः, आसामः, महाराष्ट्रम्, मणिपुरम्, मिज़ोरमः, मेघालयः, नागालैंडः,त्रिपुरा, उड़ीसा, पंजाबः, राजस्थानम्, सिक्किमः, उत्तरप्रदेशः,पश्चिम बंगालः, मध्यप्रदेशः, जम्मू-काश्मीरश्च ।।
अद्यत्वे भारते अष्टाविंशतिः राज्यानि सन्ति तानि सर्वाण्यपि प्रादेशिक विधानसभाभिः सञ्चाल्यन्ते दिल्लीनगर भारतस्य राजधानी केन्द्रं चास्ति। केन्द्रीय शासनं सांसदै: संचाल्यते। सांसदबहुसंख्याकदलेन मन्त्रिमण्डल निर्मीयते । सर्वोपरि राष्ट्रपति: देशस्य शासनं करोति किं बहुना भारतं सर्वोच्चसत्तासम्पन्न प्रजातन्त्रात्मकं गणराज्यमस्ति।
भारते विविधा: जातयः सम्प्रदायाः धर्मा: भाषाश्च परं सर्वे भारतीया: परस्परं प्रेम्णा व्यवहरन्ति । अत्रत्या: गङ्गादिनद्यः सकलं जगत् पुनन्ति। अत्रैव अवतीर्णा: श्रीराम:, श्रीकृष्ण, महात्माबुद्ध: महावीर, शङ्करादिमहामानवाः । अत्रैव रघु: चन्द्रगुप्त:, अशोक, विक्रमादित्य प्रभृतयः महान्त: शासका: अभवन् । आधुनिककाले गान्धि: जवाहरलाल, सुभाष चन्द्रशेखरः, मालवीयादय: महापुरुषा: अजायन्त। स्वकार्यैश्च भारतस्य महत्त्वं वर्धितवन्तः । राष्ट्रभक्ति: अस्माकं प्रथमं कर्त्तव्यम् अस्ति। अस्माभिः सर्वैरपि भारतस्य सेवा मनसा, वाचा कर्मणा च करणीया। सम्प्रदाय जाति-भाषा प्रदेशादिभेदकतत्त्वानि विस्मृत्य ऐक्यं विधाय भारतस्य रक्षा, उन्नतिः च कर्त्तव्या भारतस्य वैशिष्ट्यं प्रतिपादयन् केनापि सत्यमेवोक्तम् ——
गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ।