Satsangati Essay In Sanskrit

Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

सज्जनानां संगतिः सत्सङ्गतिः कथ्यते। मानवः एकः सामाजिक प्राणी अस्ति, अनेनैव सः एकलः स्थातुं न शक्यते । सत्यं तु एतत् संसारे नैव कोऽपि प्राणी संसर्गेण विना भवितुं स्थातुं वा न शक्यते । न केवलं एतावत् वनस्पतयोऽपि संसर्गेण एव सुखिनः भवन्ति। एका लता वृक्षेण विना स्व जीवनं सम्यक् रूपेण जीवितुं न शक्यते, सा वृक्षस्य अवलम्बं गृह्णाति एव पशुपक्षिणश्च स्व मित्रैः सह उषित्वा एव प्रसन्नाः भवन्ति। वनवासी मृगः मृगीं विना व्याकुलो भवति। एवमेव चक्रवाकोऽपि चक्रवाकीं विना स्थातुं न शक्नोति ।

कथनस्य तात्पर्यमिदं यत् संसारेऽस्मिन् नैव कोऽपि जीवः एकलः स्व जीवनं धारयितुं शक्यते। सः यत्र कुत्रापि तिष्ठति, उत्तिष्ठति, खादति, पिबति, स्वपिति आनन्दञ्च अनुभवति तस्य वातावरणस्य प्रभावः तस्योपरि भवति एव, नैव अत्र काऽपि विप्रतिपत्तिः दृश्यते।

जनः यादृश्यां संगतौ वसति तादृश एव प्रभावः तस्मिन् दरीदृश्यते । यदि सः दुष्टैः जनैः सह वसति, तर्हि दुष्टो भवति, यदि वा सज्जनानां सङ्गतौ वसति, तर्हि सज्जनो भवति । अनेनैव कथ्यते –

संसर्गजाः दोषगुणाः भवन्ति”

प्राचीनकाले वाल्मीकिः नाम ऋषिः स्वस्थ जीवनस्य प्रारम्भिके काले दस्युः आसीत्, सत्सङ्गत्या एव मुनिः सञ्जतः तदनन्तरञ्च महाकविः रामायणं नाम महाकाव्यं विरचितं तेन ।

सत्सङ्गत्या एव ‘कबीर’ नामकः जनः निरक्षरोऽपि सन्तसमाजे प्रतिष्ठासम्पन्नः सञ्जतः अनेकशः जनः विद्वान् भवति, किन्तु तस्य कार्यकलापानि दुष्टानि भवन्ति । ईदृशानां जनानां संगतिः कदापि न विधेया । कथितञ्च

दुर्जनः परिहर्तव्यः विद्ययाऽलंकृतोऽपि सन् ।

मणिना भूषितः सर्पः किमसौ न भयंकरः । ।

संसारेऽस्मिन् यदि जनः सुखी भवितुं वाञ्छति, तर्हि तेन सदैव सज्जनानां सङ्गतिः विधेया। दुष्टेभ्यः सदैव दूरीभूयात् दुष्टानां सङ्गतिः कज्जलवत् भवति, यत्र गमने मलिनता अवश्यमेव भवति एवमेव दुष्टानां संगत्या जनस्य चरित्रमपि मलिनं भवत्येव।

सुसंस्कारैः जनः विलम्बात् प्रभावितो भवति, दुःसंस्कारैश्च सः शीघ्रमेव प्रभवति । अतः अस्माभिः सदैव सत्सङ्गतिः विधेया स्व मित्राणि पारिवारिकान् सदस्यान् च सदैव दुष्टसंगात् अवरोद्धव्यम्।

सत्सङ्गतिस्तु वस्तुतः गुणनिधाना वर्तते । यदि जनः श्रेष्ठजनसंसर्गे वसति नैव तं जनं कस्यापि शिक्षकस्य कदापि आवश्यकता भवति । कुत्रापि च विद्याध्ययनस्य अनिवार्यता न कुतः तस्मिन् स्वयमेव ते सर्वे गुणाः प्रविशन्ति येन सह सः वसति । अतएव केनापि कविना कथितम्

जाड्यं धियो हरति, सिञ्चति वाचि सत्यं, मानोन्नतिं दिशति, पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्सङ्गतिः कथय किं न करोति पुंसाम्॥ अपि च-

सद्भिरेव सहासीत्, सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवाद मैत्रींच, नासद्भिः किञ्चिदाचरेत् ॥

अतः अस्माभिः सदैव सत्सङ्गतिः विधेया।

इसे भी पढ़ें :  Essay on Bhagwat Gita in Sanskrit

Leave a Comment

close